वांछित मन्त्र चुनें

अव॒ स्वेदा॑ इवा॒भितो॒ विष्व॑क्पतन्तु दि॒द्यव॑: । दूर्वा॑या इव॒ तन्त॑वो॒ व्य१॒॑स्मदे॑तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

अंग्रेज़ी लिप्यंतरण

ava svedā ivābhito viṣvak patantu didyavaḥ | dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat ||

पद पाठ

अव॑ । स्वेदाः॑ऽइव । अ॒भितः॑ । विष्व॑क् । प॒त॒न्तु॒ । दि॒द्यवः॑ । दूर्वा॑याःऽइव । तन्त॑वः । वि । अ॒स्मत् । ए॒तु॒ । दुः॒ऽम॒तिः । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥ १०.१३४.५

ऋग्वेद » मण्डल:10» सूक्त:134» मन्त्र:5 | अष्टक:8» अध्याय:7» वर्ग:22» मन्त्र:5 | मण्डल:10» अनुवाक:11» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दिद्यवः) तीक्ष्ण चमकनेवाले अस्त्रविशेष (स्वेदाः-इव) पसीने के बिन्दुओं के समान (अभितः) शत्रुओं की ओर (विष्वक्) बिखर-बिखर कर (अव पतन्तु) गिरें (दुर्मतिः) दुष्ट शत्रु (दूर्वायाः-तन्तवः-इव) दूर्वा घास के तन्तुओं की भाँति (अस्मत्) हम से (वि-एतु) विच्छिन्न हो जावें (देवी०) पूर्ववत् ॥५॥
भावार्थभाषाः - तीक्ष्ण शस्त्र शत्रुओं के प्रति बरसाने चाहिए, जिससे कि शत्रु छिन्न-भिन्न होकर नष्ट हो जावें ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दिद्यवः) द्योतमानास्त्रविशेषाः (स्वेदाः-इव) गात्रस्वेदबिन्दव इव (अभितः-विष्वक्-अव पतन्तु) शत्रूनभितो विकीर्णीभूय अवपतन्तु (दुर्मतिः) दुर्बुद्धिर्दुष्टः शत्रुः (दूर्वायाः-तन्तवः-इव-अस्मत्-वि-एतु) दूर्वाघासस्य तन्तव इवास्मत्तो विच्छिन्नो भवतु (देवी०) पूर्ववत् ॥५॥